धीराः शोकं तरिष्यन्ति...
सुभाषितम्
धीराः शोकं तरिष्यन्ति लभन्ते सिद्धिमुत्तमाम् ।
धीरैः सम्प्राप्यते लक्ष्मीः धैर्यं सर्वत्र साधनम् ।
तात्पर्यम्
धीराः महदपि दुःखं सहन्ते । श्रेष्ठां सिद्धिं प्राप्नुवन्ति । ऐश्वर्यमपि प्राप्नुवन्ति । धैर्यं सर्वत्र साधनमस्ति ।