नाहं जानामि केयूरे...
सुभाषितम्
नाहं जानामि केयूरे नाहं जानामि कुण्डले ।
नूपुरेत्वभिजानामि नित्यं पादाभिवन्दनात् ॥
तात्पर्यम्
केयूरे (बाह्वोः आभरणम्) अहं न अभिजानामि । कर्णकुण्डले अपि न अभिजानामि । किन्तु नित्यं पादाभिवन्दनसमये दृष्टम् इत्यतः नूपुरे तु सम्यक् अभिजानामि । (सीतायाः आभरणं दृष्टवतः लक्ष्मणस्य वचनमिदम् ।)