मे २०२४
बुधवासरः
१५
०५:०६ UTC

मित्रास्मिन् नगरे महान् कथय कः तालद्रुमाणां गणः
को दाता रजको ददाति वसनं प्रातर्गृहीत्वा निशि ।
को दक्षः परवित्तदारहरणे सर्वेऽपि दक्षाः स्वयम्
कस्माज्जीवसि हे सखे विषकृमिन्यायेन जीवाम्यहम् ॥

कश्चन यात्रिकः कञ्चित् ग्रामं प्राप्य अपृच्छत् - ‘मित्र ! अस्मिन् ग्रामे महान् कः अस्ति ?’ ग्रामीणः अवदत् - ‘महान्तः अत्र बहवः । तालद्रुमाणां गणः एव अस्ति । तत्रत्याः सर्वे वृक्षाः महान्तः (उन्नताः) एव’ इति । ‘दाता कः अस्ति ?’ - यात्रिकः अपृच्छत् । ‘रजकः । सः प्रातः वस्त्रं नीत्वा सायं ददाति’ इति अवदत् ग्रामीणः । ‘अत्र दक्षः कः ?’ - यात्रिकः अपृच्छत् । ‘अन्येषां धनस्य पत्न्याः च हरणे सर्वे अपि दक्षाः एव’ - इति ग्रामीणः अवदत् । ‘एतादृशे कुत्सिते ग्रामे कथं वासः क्रियते भवता ?’ इति अपृच्छत् यात्रिकः । ‘विषकृमिन्यायेन जीवामि । विषे स्थितः कृमिः आदौ कष्टम् अनुभवति चेदपि गच्छता कालेन अभ्यस्तविषवासः सः तत्रैव सुखेन जीवति । तद्वद् अहम् अपि जीवामि’ इति विषादेन उक्तवान् ग्रामीणः ।








"https://sa.wikiquote.org/w/index.php?title=फलकम्:चाटुचणकः&oldid=7484" इत्यस्माद् प्रतिप्राप्तम्