हिन्दुराष्ट्रसङ्घटकं...
हिन्दुराष्ट्रसङ्घटकं...
हिन्दुराष्ट्रसङ्घटकं सुजनवन्दनीयं
केशवं स्मरामि सदा परमपूजनीयम् ॥
राष्ट्रमिदं हिन्दूनां खलु सनातनम्
विघटनया जातं चिरदास्यभाजनम्
दु:खदैन्यपीडितमिति पीडितहृदयम् ॥ ॥१॥
भगवद्ध्वज एव राष्ट्रगुरुरयं महान्
देशोऽयं खलु देवो जगति महीयान्
बोधयन्तमिति तत्त्वं सततस्मरणीयम् ॥ ॥२॥
वीरव्रतमेव परं धर्मनिदानम्
सुशीलमेव लोकेऽस्मिन् परमनिधानम्
उपदिशन्तमिति सारं दृढमाचरणीयम् ॥ ॥३॥
नेतुं निजराष्ट्रमिदं परमवैभवं
नयत विलयमन्तर्गतसकलभेदभावम् ।