अग्निः अदग्धं वस्तु दग्धुं शक्नोति परन्तु स एव अग्निः पूर्वमेव दग्धं वस्तु दग्धुं न शक्नोति इत्यर्थे अस्य न्यायस्य प्रयोगः भवति । ‘इको झल्’ (१-२-९) इत्यस्य पाणिनि-सूत्रस्य भाष्ये पतञ्जलिमुनिना अस्य प्रयोगः कृतः ।

"https://sa.wikiquote.org/w/index.php?title=अदग्धदहनन्यायः&oldid=8172" इत्यस्माद् प्रतिप्राप्तम्