आत्मानं चेद्विजानीयात्...

आत्मानं चेद्विजानीयात् अयमस्मीति पूरुषः ।
किमिच्छन् कस्य कामाय शरीरमनुसंज्वरेत् ॥ - बृहदारण्यकोपनिषत् ४-४-१२

यः मानवः प्रत्यगात्मानम् आत्मत्वेन जानाति, सः किं फलम् इच्छन्, कस्य कामस्य प्राप्त्यर्थम्
इदं शरीरम् अनु संज्वरेत् ?

अयं हि सुप्रसिद्धो जनप्रियश्च मन्त्रः । आत्मतत्त्वे सम्यक् विज्ञाते सति तस्य धीरस्य दुः खमेव न
विद्यते ।‘अहं निरुपाधिकः असंसारी आत्मा’ इति यः जानाति स एव धीरः। अस्य ज्ञानस्य ‘ब्रह्मात्मविद्या’
इत्यपि नाम भवति । ‘अहं नित्यशुद्धनित्यबुद्धनित्यमुक्तः आत्मा अस्मि’ इतिज्ञानमेव आत्मदर्शनं नाम ।
इदमेव च सत्यदर्शनं सम्यग्दर्शनं चेति कथ्यते ॥

एवंविदः उपादेयं वा हेयं वा न किञ्चिदस्ति । किं वा एषः कामयेत् ? सर्वमपि अहमेव इति जानतः कामाः
न सम्भवन्ति खलु ? एवं स्थिते अस्य सुखदुःखानि सम्भवन्ति वा ? न कदापि सम्भवन्ति ।
सर्वात्मदर्शनसम्पन्नस्य आत्मज्ञानिनः संसारदुःखस्य सम्बन्धो नास्ति ॥