उष्ट्रकण्टकभक्षणन्यायः

उष्ट्रः कण्टकितस्य वृक्षस्य पत्राणि खादति । कण्टकानां चिन्ताम् अकृत्वा पत्राणि यदा खादति तदा तस्य महान् आनन्दः भवति । यथार्थतः किमपि वस्तु स्वभावेन आनन्ददायकं दुःखदायकं वा न भवति उष्ट्रः कण्टकान् खादति इति कण्टकभक्षणं सर्वेभ्यः रोचते इति तु न भवति । स्वभाव एव अत्र प्रमुखविषय इति तु सत्यम् ।

यथा-

कर्णामृतं सूक्तिरसं विमुच्य दोषेषु यत्नः सुमहान् खलस्य ।
अवेक्षते केलिवनं प्रविश्य क्रमेलकः कण्टकजालमेव ॥(विक्रम१-२९)

उपवनं गतः अपि उष्ट्रः प्रमादवशात् अपि तत्रस्थान् सुन्दरान् वृक्षान् न पश्यति । स्वभावकारणेन सः कण्टकितान् वृक्षान् अन्विष्य तान् एव खादेत् । समाजे दोषाणां दर्शने एव दुष्टानां महान् आनन्दः ते गुणान् द्रष्टुं न शक्नुवन्ति दोषान् एव पश्यन्ति इति अनेन न्यायेन सूच्यते ।