कण्टक इत्यस्य शब्दस्य अधमपक्षेण ‘तीक्ष्णाग्रकाष्ठखण्डः , शत्रुः’ इति अर्थद्वयं विद्यते । पादे कण्टकः लग्नः चेत् अपरेण कण्टकेन वयं पूर्वं कण्टकं निष्कासयामः । तदनन्तरं कण्टकद्वकारणात् अपि दुःखं मा भूत् इति वयं तद्द्वयमपि दूरीकुर्मः । तथैव आवश्यकताम् अनुसृत्य एकस्य शत्रोः साहाय्येन अपरस्य शत्रोः नाशः क्रियते तदनन्तरं पूर्वस्यापि शत्रोः नाशः क्रियते । अयं न्यायः राजनीतिविधानं प्रकाशयति ।

"https://sa.wikiquote.org/w/index.php?title=कण्टकन्यायः&oldid=8996" इत्यस्माद् प्रतिप्राप्तम्