गद्यकाव्यसूक्तयः (मानवस्वभावः)

<poem> १ . अतिदूरप्रवृद्धेन मधुना जगति को वा न विक्रियते । - वासवदत्ता पृ० १६२

२ . मनुष्यजन्मनि कल्याणवतामखिलसुखोपभोग एव पर्यवसायो व्यापारः । - उदयसुन्दरीकथा उ०३

३ . जीवसृष्टिप्रवाहेषु मानव इव परप्रातारकाः स्वार्थसाधनपराः मायाविनः,

कपटव्यवहारकुशलाः, नीचस्वभावाः, हिंसानिरता जीवा न विद्यन्ते ॥ - प्रबन्धमञ्जरी पृ० ५८

४ . मनुष्यजन्मानः किल प्रतिक्षणं स्वार्थसाधनाय सर्वात्मना प्रवर्तन्ते । - प्रबन्धमञ्जरी पृष्ठम् ५९

५. मनुष्याणां हिंसावृत्तिस्तु निरवधिः पशुहत्या तु तेषामाक्रीडनम् । - प्रबन्धमञ्जरी पृष्ठम् ५९

६. मानवा नाम सर्वासु सृष्टिधारासु निकृष्टतमा सृष्टिः । - प्रबन्धमञ्जरी पृष्ठम् ५९

७. मनवो हि स्वभावेन दुराचारानुकूलः । केवलं दण्डनीत्यैव विहायात्मनः

स्वाभाविकप्रवृत्तिं सदाचारपथमनुसरति । - प्रतिज्ञापूर्तिः परि ०५