पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (१२ अनतिरिक्तपद...)

(चित्रपद्धतिस्त्रिंशी (१२ अनतिरिक्तपद...) इत्यस्मात् पुनर्निर्दिष्टम्)

१२. कारिका न न यात्राया या गेयाऽस्यस्य भानुभा ।
पादपा हह सिद्धासि यज्ञाय मम साञ्जसा ॥

पदविभागः सम्पाद्यताम्

कारिका, न, न, यात्रायाः, या, गेया, असि, अस्य, भानु-भा,पादपा, ह, ह,
सिद्धा, असि, यज्ञाय, मम, सा, अञ्जसा ॥

प्रतिपदार्थः सम्पाद्यताम्

या, अस्य – भगवतः, यात्रायाः – (लोकरक्षणार्थस्य) सञ्चारस्य, (जीवराशेः देहयात्रायाः
आत्मयात्रायाः च), न कारिका न – कारयित्री नूनं, गेया – स्तुत्यर्हा, भानुभा- सूर्य इव
प्रकाशवती, पादपा – सर्वलोकरक्षकस्य भगवतश्चापि पादौ रक्षन्ती, सा (त्वम्) – एवम्
अनेकप्रकारेण परमोत्कृष्टा त्वम्, मम यज्ञाय – मम भगवदाराधनरूपयज्ञस्य कृते,
अञ्जसा – त्वरितगत्या, सिद्धा असि – स्वयमुपस्थाय ‘माम् आराधय’ इति वदन्तीव
सिद्धा असि, ह ह – आश्चर्यम् एतत् ।
 

तात्पर्यम् सम्पाद्यताम्

’दयागुणपूर्णा पादुकादेवी परमोत्कृष्टा अस्ति । तादृश्याः तस्याः आराधने योग्यताविरहितः
अहं च निकृष्टः अस्मि । तथापि सा स्वसौशील्येन, सौलभ्येन, वात्सल्येन च विपलायितमपि
मां विक्षिप्य स्वाराधनाय नियोजयति । अतः मम इतः परम् आशास्यं वा किमस्ति’ इति
सन्तोषमिश्रितम् आश्चर्यं प्रकटयति कविः ।

विशेषः सम्पाद्यताम्

अस्मिन् श्लोके ‘अनतिरिक्तपदपदार्थानुलोमप्रतिलोमयमकम्’ इति शब्दचित्रम् विद्यते ।
अनुलोमक्रमेण प्रतिलोमक्रमेण वा पठितेषु श्लोकस्थपदेषु पदपदार्थौ समानौ । प्रतिलोमक्रमेण
श्लोकः एवं भवति -
साञ्जसा मम यज्ञाय सिद्धासि हह पादपा ।
भानुभास्यस्य या गेया यात्राया न न कारिका ॥