तान् होवाच, ब्राह्मणा...

तान् होवाच, ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः, स एता गाः उदजतामिति । - बृहदारण्यकोपनिषत् ३-१-२

तान् विदुषः 'भोः पूज्याः विद्वांसः ब्राह्मणाः युष्मासु यो ब्रह्मिष्ठः सः एताः गाः नयतु' इति जनकमहाराजः उवाच ॥

बृहदारण्यकोपनिषदि कश्चन कथासन्दर्भोऽयम् । जनकः सम्राट् विदुषां सभाम् एकाम् आयोज्य तत्र स्वर्णालङ्कृतशृङ्गैः
अलङ्कृताः एकसहस्रं गाः विद्वत्तायाः पणत्वेन स्थापितवान् आसीत् । तां सभां प्रति देशस्य नानादिग्भ्यः पण्डितोत्तमाः
आगताः आसन् । तान् विदुषः प्रति जनकः एतानि वचांसि उक्तवान् । तद्यथा –

'भोः पूज्याः विद्वांसः, भवत्सु यः कोऽपि विद्वान् ब्रह्मनिष्ठश्चेत् अवश्यं तादृशः इमाः धेनूः स्वगृहं नयेत्' इति जनकः
उद्घोषितवान् । अनेन जनकराजस्य सम्पत्, तदनुगुणम् औदार्यम्, ब्रह्मजिज्ञासासक्तिः, ब्रह्मज्ञानिषु तस्य भक्तिगौरवम्,
स्वतः आत्मनः मुमुक्षुत्वं च इत्येतत् सर्वं विज्ञायते । ब्रह्मिष्ठेभ्यः स्वसर्वसम्पदमपि दातुं सिद्धोऽयम् । सम्पदः साफल्यमिदम् !