ध्यात्वा मुनिर्गच्छति भूतयोनिम्...

ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् । - कैवल्योपनिषत् १-७

भूतकारणं विश्वसाक्षिणम् आत्मानं ध्यात्वा, विजानन् मुनिः, अविद्यातमसः परस्तात् मोक्षम् आप्नोति ॥

आत्मानं ध्यात्वा मुक्तिर्लभ्यते इति उपदिशति अयं मन्त्रः । अत्र ध्यानं नाम ज्ञानमेव । आत्मनः
निजस्वरूपानुसन्धानमेव अत्र ध्यानशब्दार्थः । चित्तशुद्धिं लब्ध्वा साधकः सद्गुरूणां मार्गदर्शनानुसारेण
आत्मनः स्वरूपम् चिन्तयेत् ॥

कोऽसावात्मा ? न हि आत्मा नाम स्वस्मात् भिन्नः कश्चित् देवताविशेषः । न च एकः पुरुषः । किं तु
आत्मा नाम भूतयोनिः । भूतानां योनिभूतं परमात्मानमेव अत्र साधकः चिन्तयेत् । अयमेव आत्मा
समस्तस्यापि विश्वस्य साक्षिभूतः । स्वस्मिन्नेव स्थित्वा यः सकलानपि व्यापारान् निर्विकारतया अवभासयति,
स एव अहमिति यदा ज्ञायते तदेव ध्यानम् । तस्य फलमेव मुक्तिः । अयमात्मा तमसः परस्तात् । अविद्यातमः
आत्मनि नास्ति । आत्मा चिन्मात्रस्वरूपः अहम् इति विजानीयात् । ध्यानफलमेतत् ॥