स्वस्थाने वर्तमानः मनुष्यः अतीव सुरक्षितो भवति । स एव यदा स्थानभ्रष्टो भवति तर्हि पराभूतो भवति । यथा जले वर्तमानः नक्रः अतीव बलवान् भवति चेदपि यदा जलाद् बहिः गच्छति तदा तस्य शक्तिः क्षीणा भवति । नक्रः जले भवति चेत् गजमपि मारयितुं शक्तो भवति स्थले तावत् तं शुनकोऽपि भीषयितुं शक्नोति ।

यथा – नक्रः स्वस्थानमारुह्य गजेन्द्रमपि कर्षति ।

स एव प्रच्युतः स्थानात् शुनाऽपि परिभूयते ॥ पञ्चतन्त्रे ३-४४

"https://sa.wikiquote.org/w/index.php?title=नक्रन्यायः&oldid=10369" इत्यस्माद् प्रतिप्राप्तम्