यथा नदी स्वं नामरुपादिकं विहाय समुद्रे लीयते तथा जीवाः सर्वे स्वं नामरुपादिकं विहाय परब्रह्मणि लीयन्ते । यथा –

यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरुपे विहाय । तथा विद्वान् नामरुपाद् विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥

मुण्डाकोपनिषद् ३-२-८ (सा. ८१६)

अस्यैव न्यायस्य भिन्नार्थः अपि विद्यते । नदीसमुद्रौ जललवणे, वृक्षरसौ च परस्परभिन्नाः पदार्थाः । तथैव जीवः ईश्वरश्च भिन्नौ इति पूर्णप्रज्ञदर्शने द्वैताचार्याणां माध्वाचार्याणां मतम् । अद्वैते अभेद एव स्वीक्रियते । एतमेव अर्थं बोधयन्तः अपरे न्यायाः यथाः

शकुनिसूत्रन्यायः, शुद्धोदलवणन्यायः, चौरापहार्यन्यायः, पुंविषयन्यायः, नानावृक्षरसन्यायः (सा ८१७-८२२)

"https://sa.wikiquote.org/w/index.php?title=नदीसमुद्रन्यायः&oldid=10373" इत्यस्माद् प्रतिप्राप्तम्