नरस्याभरणं रूपं...
सुभाषितम्
नरस्याभरणं रूपं रूपस्याभरणं गुणः ।
गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा ॥
सुभाषितरत्नसमुच्चयम्
narasyābharaṇaṃ rūpaṃ rūpasyābharaṇaṃ guṇaḥ ।
guṇasyābharaṇaṃ jñānaṃ jñānasyābharaṇaṃ kṣamā ॥
पदच्छेदः
नरस्य आभरणं रूपं रूपस्य आभरणं गुणः गुणस्य आभरणं ज्ञानं ज्ञानस्य आभरणं क्षमा ॥
तात्पर्यम्
मनुष्यस्य अलङ्कारः रूपम्, रूपस्य अलङ्कारः गुणः, गुणस्य आभूषणं ज्ञानं ज्ञानस्य अलंकारः क्षमा।
आङ्ग्लार्थः
The ornament of a man is his form, the ornament of form is virtue, the ornament of virtue is knowledge and the ornament of knowledge is forgiveness.