न तु तद्द्वितीयमस्ति...


तत्र न भिन्नं किञ्चन अस्ति

न तु तद्द्वितीयमस्ति ततोऽन्यत् विभक्तं यत् पश्येत् । - बृहदारण्यकोपनिषत् ४-३-२३

तत्र सुषुप्तौ आत्मनः भिन्नतया अन्यत् द्वितीयं किञ्चन नास्ति ।
येन, प्रमाणैः तद् दृश्येत ॥

सुषुप्तौ आत्मा चिन्मात्रस्वरूप एव । आत्मा सदा दृक्स्वरूप एव ।
तर्हि किमर्थं तत्र न किञ्चिदपि जानाति आत्मा । दृक्स्वरूपस्य आत्मनः
अज्ञानं न सम्भवेत् खलु ? इति पृष्टे अयं मन्त्रः प्रतिवचनं ददाति ।

सुषुप्ते द्वैताग्रहणे नाज्ञानम् आत्मनः कारणम् । किन्तु आत्मविभिन्ना
विषया एव तत्र न विद्यन्ते । निद्रायां प्रमाता वा प्रमाणं वा प्रमेया वा
न हि विद्यन्ते । सर्वमप्येतत् तत्र आत्मैव आसीत् । आत्मनो भिन्नतया
विज्ञेयाः पदार्थाः यदि तत्र अभविष्यन् तदा खलु तत्र प्रमाता तान् विषयान्
जानीयात् ? न तु आत्मभिन्नतया तत्र किञ्चिदप्यस्ति । सुषुप्तौ सर्वम्
आत्मैव आसीत् । प्रमातृप्रमाणप्रमेयाः सर्वेऽपि आत्मन्येव सम्पन्नाः ।
आत्मा तत्र अद्वितीयस्वरूपो भवति । तस्माद् हेतोः तत्र आत्मा न
किञ्चिदपि जानाति इत्यर्थः ॥

"https://sa.wikiquote.org/w/index.php?title=न_तु_तद्द्वितीयमस्ति...&oldid=16498" इत्यस्माद् प्रतिप्राप्तम्