वाचोयुक्तिः वाक्प्रपञ्चस्य शोभां वर्धयति । स्वीयैः पदैः चमत्कारयुक्तं विशेषम् अर्थम् अभिव्यञ्जयति । वाचः युक्तिः इति उच्यते चेत् षष्ठीतत्पुरुषसमासः भवति । वाक्दिक्पश्यद्भ्यः युक्तिदण्डहरेषु इत्येतत् किञ्चन वार्तिकं विद्यते । अस्य वार्तिकस्य नियमस्य अनुसारं वाचोयुक्ति इत्यस्मिन् 'वाक्'शब्दस्य षष्ठीविभक्तिप्रत्ययस्य लोपः न जातः । इदम् अलुक्समासः इति उच्यते । वाचोयुक्तयः गणपाठे उपलभ्यते ।

पात्रेसमितादयश्च सम्पाद्यताम्

  • पात्रेसमितः - केवलं भोजनार्थम् उपस्थितः भवति, न कदापि कार्यार्थम् ।
  • गेहेशूरः - गृहे केवलम् अस्य शौर्यम्, अन्येषु कार्येषु न ।
  • कूपमण्डूकः - अल्पज्ञः । अस्मिन्नेव अर्थे - उदुम्बरक्रिमिः, कूपकच्छपः, अवटकच्छपः, कुम्भमण्डूकः, उदपानमण्डूकः
  • नगरकाकः - अन्येषां वञ्चने चतुरः ।
  • गर्भे तृप्तः - आजन्मदरिद्रः ।
  • आखनिकबकः - गृहे विद्यमानं भुञ्जानः कालं यापयति । (आखनिकः - जलधारा इत्यर्थः) बहिः सम्पादनं न करोति ।
  • मातरि पुरुषः / पितरि पुरुषः - गृहे एव मातरं भाययन् भुञ्जानः भवति । बहिः कार्यं न करोति ।
  • गेहनर्दी - केवलं गृहे शूरः ।
  • पिण्डीशूरः - भोजने शूरः, कार्ये अपि शूरः ।
  • गेहमेहि - गृहे एव तिष्ठति । कार्यार्थं बहिः न गच्छति ।
  • गेहविचिती - गृहे तिष्ठन् इदं युक्तम् इदम् अनुक्तम् इति कथयति । किन्तु कार्यावधौ न कथयति ।
  • नगरश्वा - अविनीतः, दार्ष्ट्यबुद्धिः यः सः ।
  • कर्णेटिरिटिरा - श्रोतॄणाम् आसक्त्यादिकम् अपरिगणयन् यः निरन्तरं रटति सः । अस्मिन्नेव अर्थे - कर्णे चुरुचुराः
  • पात्रेबहुलः
  • उदुम्बरमशकः
  • नगरवायसः
  • गेहेक्ष्वेडी
  • गेहेविजिती
  • गेहेव्याडः
  • गेहेदाहौ
  • गेहेदृप्तः
  • गेहेधृष्टः
  • गोष्ठेशूरः
  • गोष्ठेविजिती
  • गोष्ठेक्ष्वेडी
  • गोष्ठेपटुः
  • गोष्ठेपण्डितः
  • गोष्ठेप्रगल्भः

मयूरव्यंसकादयश्च सम्पाद्यताम्

  • अश्नीतपिबता पचतभृज्जता खादतमोदता/खादतवमता- खादनपानादिकम्

उदा - राज्ञो दशरथस्य अश्वमेधयागे महती भोजनव्यवस्था बभूव । सर्वदा अश्नीत पिबता, खादत मोदता च समभवत् ।

  • एहिरेयाहिरा - अये अत्र आगच्छ, तत्र गच्छ इति अगौरेण आज्ञाकरणाय अयं शब्दः उपयुज्यते ।

उदा - नाहं तस्य धनिकस्य गृहे स्थास्यामि । सर्वदा एहिरेयाहिरा इति मां पीडयति ।

  • कणेहत्य-मनोहत्य - कण्ठपूर्ति - आतृप्ति

उदा - कणेहत्यसुरां पिबति, मनोहत्य पुष्पाणि पश्यति

  • कुतुपसौश्रुतः - 'कुतुप' - (मेषस्य) ऊर्णेन सज्जीकृतं कम्बलम् । इदं सर्वदा यः धरति सः कुतुपसौश्रुतः ।
  • अजातौल्वलि - अजानां क्रयविक्रयणं यःकरोति सः अजातौल्वलिः ।
  • उष्ट्रकोशी - उष्ट्रः इव यः कूजति सः ।
  • काकरावी - काकः इव कूजति ।
  • मयूरव्यंसकः
  • छात्रव्यंसकः
  • कम्बोजमुण्डः
  • यवनमुण्डः
  • हस्तेगृह्यः/हस्तगृह्यः
  • पादेगृह्यः/पादगृह्यः
  • लाङ्गूलेगृह्यः/लाङ्गूलगृह्यः
  • पुनर्दायः
  • एहीडम्
  • एहियवम्
  • एहिवणिजा - शाकविक्रयिकं गृहिणी एवम् आह्वयति ।
  • अपेहिवाणिजा - कलहं कृत्वा विक्रयिकं गृहात् प्रेषणक्रिया अपेहिवणिजा इति कथ्यते ।
  • प्रेहिवाणिजा
  • एहिस्वागता
  • अपेहिस्वागता
  • एहिद्वितीया
  • अपेहिद्वितीया
  • प्रैहिद्वितीया
  • एहिकटा
  • अपेहिकटा
  • प्रेहिकटा
  • आहरकटा
  • प्रेहिकर्दमा
  • प्रोहकर्दमा
  • विधमचूडा
  • उद्धमचुडा/उद्धरचूडा
  • आहरचेला
  • आहरवसना/आहरसेना
  • आहरवनिता/आहरविनता
  • कृन्तविचक्षणा
  • उद्धरोत्सृजा
  • उद्धरावसृजा
  • उद्धमविधमा
  • उत्पचनिपचा
  • उत्पतनिपता
  • उच्चनीचम्
  • आचोपचम्
  • आचपराचम्/नखप्रचम्
  • निश्चप्रचम्
  • अकिञ्चन
  • स्नात्वाकालकः
  • पीत्वास्थिरकः
  • भुक्त्वासुहितः
  • प्रोष्यपापीयान्
  • उत्पत्यपाकला
  • निपत्यरोहिणी
  • निषण्णश्यामा
  • अपेहिप्रघसा
  • एहिविघसा
  • इहपञ्चमी
  • इहद्वितीया
  • जहिजोडः/जहिजोडम्
  • जहिस्तम्बम्/जहिस्तम्बः/उज्जहिस्तम्बम्
  • आख्यातमाख्यातेन
  • आहरनिवपा
  • आहरनिष्किरा/आवपनिष्करा
  • उत्पचविपचा
  • भिन्धिलवणा
  • कृन्धिविचक्षणा
  • पचलवणा
  • पचप्रकूटा
  • अकुतोभयः
  • कान्दिशीकः/कान्दिशीकः
  • आहोपुरुषिका अहमहमिका
  • यदृच्छा
  • उन्मृजावमृजा
  • द्रव्यान्तरम्
  • अवश्यकार्यम्

अन्याः सम्पाद्यताम्

  • खट्वारूढः - अविनीतः इत्यर्थः । ब्रह्मचारिभिः अध्ययनावसरे खट्वायाः (मञ्चस्य) आरोहणं न करणीयमित्यस्ति नियमः ।
  • लालाटिकः - सेवकः । स्वामिनः कथनम् अनवगच्छन् तदीयं ललाटमेव पश्यन् यः तिष्ठेत् सः ।
  • कौक्कुटिकः - संन्यासी । कुक्कुरस्य चलनादीनाम् आधारेण भविष्यं यः कथयति सः ।
"https://sa.wikiquote.org/w/index.php?title=वाचोयुक्तिः&oldid=3198" इत्यस्माद् प्रतिप्राप्तम्