अन्नमयं हि सोम्य मनः आपोमयः प्राणः तेजोमयी वाक् । - छान्दोग्योपनिषत् ६-६-५

हे सोम्य, मनः अन्नमयम्, प्राणः आपोमयः, वाक् तेजोमयी ।

अन्नम्, आपः, तेजश्च इति त्रीण्येव एतानि स्वीकृत्य अस्य विश्वस्य सृष्टिः उपदिष्टात्र । अस्य
‘त्रिवृत्करण’मिति नाम । पृथिवी आपः तेजांसि – इति एतेभ्यः त्रिभ्य एव अस्य प्रपञ्चस्य सृष्टिः
इति इयम् उपनिषत् उपदिशति ॥

भुक्तादन्नात् मनो वर्धते । अन्नेन मनसः सम्बन्धः । यादृशम् अन्नं तादृशं मनः । सात्त्विकादाहारात्
सात्त्विकं मनः । तस्मादेव कारणात् साधकैः सात्त्विका एव आहाराः स्वीकार्याः । मनसि शुद्धे सति
मुमुक्षोः ज्ञानं प्राप्तप्रायमेव ॥

आपोमयः प्राणः । जलेन हि प्राणो जीवति । जलाभावे मानवः म्रियते एव । अन्नाभावेऽपि जीवेत्,
जलाभावे प्राणाभावः प्राणाभावे तु मरणमेव । वाक् तु तेजोमयी । तैजसैः आहारैः वाक् पटीयसी
भवति । एवं शरीरमेतत् पृथिवीजलतेजोभिः सम्भूतम् । इदमेव त्रिवृत्करणं नाम ॥

"https://sa.wikiquote.org/w/index.php?title=अन्नमयं_हि_सोम्य_मनः...&oldid=16357" इत्यस्माद् प्रतिप्राप्तम्