"स्वामी विवेकानन्दः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
 
 
* {{cquote|महत् लक्ष्यं चीयताम् । तत् लक्ष्यं जीवितकार्यं चिन्त्यताम् । प्रतिक्षणं तस्यैव चिन्तनं क्रियताम् । तद्विषये एव स्वप्नः दृश्यताम् । तस्य साहाय्येन एव जीव्यताम् । मस्तिष्कं, मांसपेश्यः, नाड्य:, इत्यादीनि सर्वाणि शरीरस्य अङ्गानि तेन एव विचारेण ओतप्रोतानि स्युः । यावत् एतत् न सिध्यति, तावत् अन्ये विचाराः दूरे तीरे एव तिष्ठन्तु नाम । सफलतायाः एषः एव राजमार्गः ।}}
 
 
* {{cquote|यदा अहम् इतिहासे दृष्टिं पातयामि, तदा प्रतीयते यत् विश्वे तादृशः कश्चन देशः अन्यः न स्यात्, यश्च मानवोत्थानाय एतावत् योगदानं कृतवान् स्यात् इति । प्राचीने अपि काले भारतेन वैज्ञानिकाः चिकित्सकाः दत्ताः । भारतेन नानारसायनानां संशोधनं कृत्वा आधुनिके चिकित्साविज्ञानक्षेत्रे अपि योगदानं कृतम् । गणितं, बीजगणितं, रेखागणितं, खगोलशास्त्रम्, आधुनिकविज्ञानं, मिश्रितगणितम् इत्यादिषु क्षेत्रेषु विशेषप्रगतिः साधिता तेन । वर्तमानसभ्यतायाः सर्वेषाम् अनुसन्धानानाम् आधारशिलाभूतस्य दशमानपद्धतेः आविष्कारः यथा, तथैव जातः अन्येषाम् अपि आविष्कार: । दशमानपद्धतिसम्बद्धानां दशानाम् अङ्कानां नामनिर्देश: आदौ संस्कृतशब्दैः जातः ।}}
 
 
* {{cquote|यदा भारतस्य वास्तविकः इतिहासः अभिज्ञायेत, तदा निस्सन्देहं प्रमाणितं भवेत् यत् धार्मिकक्षेत्रे इव विज्ञान-दर्शन-सङ्गीत-साहित्य-गणित-ललितकलादिषु क्षेत्रेषु अपि भारतं समग्रस्य प्रपञ्चस्य गुरुः आसीत् इति ।}}
 
 
"https://sa.wikiquote.org/wiki/स्वामी_विवेकानन्दः" इत्यस्माद् प्रतिप्राप्तम्