व्रतं कृणुत ॥

(वेदसूक्तिः/व्रतं कृणुत ॥ इत्यस्मात् पुनर्निर्दिष्टम्)

व्रतं कृणुत ॥ (यजु ४-११) सम्पाद्यताम्

व्रतं पालय ।

वृतु वर्तने इति अस्य धातुः । नैरन्तर्येण यद् पाल्यते तत् व्रतम् । अहिंसा, सत्यम्, अस्तेयः, ब्रह्मचर्या, अपरिग्रहः, शौचम्, सन्तोषः, तपः (सद्गतिं दुर्गतिञ्च समानतया स्वीकरणम्), स्वाध्यायः (आत्मपरिशीलनम्, वेदानुकूलग्रन्थानाम् अध्ययनम्), ईश्वरप्रणिधानम् (भगवदर्पणम्) - एतानि एव महाव्रतानि । आजीवनम् अवश्यं पालनीयानि व्रतानि एतानि ।
"https://sa.wikiquote.org/w/index.php?title=व्रतं_कृणुत_॥&oldid=3712" इत्यस्माद् प्रतिप्राप्तम्