सुभाषितम्

शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति ।
न तस्य जीवितेनार्थो न धनेन न बन्धुभिः ॥




तात्पर्यम्

मनुष्यस्य शीलमेव अत्यन्तं मुख्यम् । यस्य शीलं प्रणश्यति तस्य जीवनेन किमपि प्रयोजनं नास्ति । अपारेण धनेन, अनेकैः बन्धुभिः च तस्य किमपि प्रयोजनं नास्ति ।

"https://sa.wikiquote.org/w/index.php?title=शीलं_प्रधानं_पुरुषे...&oldid=15012" इत्यस्माद् प्रतिप्राप्तम्