<poem> १ अविद्यो वा सविद्यो वा

गुरुरेव जनार्दनः । - स्मृतिभारसंग्रहः पृ. २९६

२ आचार्यो ब्रह्मणो मूर्तिः । - मनुस्मृतिः, २/ २२६

३ आसमाप्तेः शरीरस्य

यस्तु शूश्रूषते गुरुम् ।
स गच्छत्यंजसा विप्रो
ब्राह्मणः सद्मशाश्वतम् ॥ - मनुस्मृतिः, २/ २४४

४ गुरुर्देवाद् विशिष्यते । - मार्कण्डेयस्मृतिः, पृ. ४०

५ गुरुद्वारे सपिण्डे वा

गुरुवद् वृत्तिमाचरेद् । - मनुस्मृतिः, २/ २२२

६ गुरोर्गुरौ सन्निहिते

गुरुवदवृत्तिमाचरेत् । - मनुस्मृतिः,, २/ १८०
"https://sa.wikiquote.org/w/index.php?title=स्मृतिसूक्तयः_(गुरुः)&oldid=7632" इत्यस्माद् प्रतिप्राप्तम्