मुखपुटम्


विकिसूक्तिः
विकिसूक्तिः
कश्चित् स्वतन्त्रः सुभाषितसङ्ग्रहः
सश्रद्धः  यः कोऽपि सम्पादयितुम् अर्हति।

विकिसूक्तौ वः हार्दं स्वागतम्

विकिलोकस्य संस्कृतभाषायाः सुभाषितोद्याने वः हार्दं स्वागतम् । 'विकिसूक्तिः' नाम संस्कृतभाषायाः सुभाषितसमुत्तारणस्य काचित् परियोजना अस्ति । अस्य अभिवृद्ध्यर्थे सम्पादनं समुत्तारणं वा यूयं स्वयमेव कर्तुं शक्नुथ । देवनगरीलिप्याः टङ्कनं (मुद्रलेखनं) कर्तुं साहाय्यकाः सूचनाः अत्र वर्तन्ते ।

सम्प्रति संस्कृतविकिसूक्तौ ४,७६३ पृष्ठानां सङ्ग्रहः विद्यते ।

शुक्रवासरः, मार्च् २९, २०२४; समयः- ०५:३५ UTC

अं अः ०-९
वर्गाः क्ष त्र ज्ञ 0-9

भूमिका

अयि भोः विकिसंस्कृतबन्धो सूक्तीनां कोशेऽस्मिन् ते हार्दं स्वागतम् । अत्र संस्कृतसूक्तयः, सुभाषितानि, लोकोक्तयः, प्रहेलिकाः, चाटूक्तयः च प्राप्तुं तथा योजयितुं च शक्नुमः । अस्मिन् भवतां योगदानम् इच्छामः । एतत् कार्यं कर्तुं संस्कृतस्य गभीरज्ञानं भवेत् एव इति नास्ति । प्राथमिकसाहाय्यार्थं प्राचीनयोजकानां (सक्रियकार्यकर्तॄणां) साहचर्येण मार्गदर्शनं प्राप्तुं शक्नोति । भवेम संस्कृतानुरागिणः लोकहितकारिणः । धन्यवादाः।

विषयाः

अद्यतनी वेदसूक्तिः

अक्षैर्मा दीव्यः ॥ (ऋग्वेदः १०-३४-१३)

द्यूतादिभिः मा क्रीड्यताम् ।








इयं नः गीर्वाणी...

भारतीय –प्रशासनिकसेवासु संस्कृतस्य सहभागः अधिकः भवेत् येन भारतीयः समाजः नूतनं चिन्तनं, मार्गदर्शनं, स्वकीयां वास्तविकतां च ज्ञातुं शक्नुयात् ।
- के पि मेनन्






हे चतुर, वद उत्तरम् !

अस्ति ग्रीवा शिरो नास्ति द्वौ भुजौ करवर्जितौ ।
सीतापहरणसामर्थ्ये न रामो न च रावणः ॥

कण्ठः विद्यते, मस्तकं न विद्यते । उभौ भुजौ स्तः, किन्तु करौ न स्तः । सीतापहरणे समर्थः, किन्तु रामः अपि न, रावणः अपि न । अत्र ’सीता’ इत्यस्य शैत्यम् इति अर्थः ग्रहीतव्यः । कञ्चुकं नाम चोलं शैत्यम् अपहरति ।

उत्तरम्

कञ्चुकम्







चाटुचणकः

वाच्यतां समयोऽतीतः स्पष्टमग्रे भविष्यति ।
इति पाठयतां ग्रन्थे काठिन्यं कुत्र विद्यते ॥

यदि शिष्यः पाठ्यभागविषये कठिनं प्रश्नं पृच्छति तर्हि उत्तरकथनं निवारयितुं त्रयः मार्गाः । ‘रे पठ पठ’ इति तर्जनं प्रथमः प्रकारः । ‘इदानीं समयः नास्ति । श्वः वदिष्यामि’ इति कथनं द्वितीयः मार्गः । ‘एषः विषयः भवता इदानीं न बुध्यते । कालान्तरे भवान् ज्ञास्यति’ इति कथनं तृतीयः प्रकारः । एतान् प्रकारान् अवलम्ब्य ये पाठयन्ति ते कस्यापि ग्रन्थस्य पाठने काठिन्यं न अनुभवन्ति ।








भ्रातृपरियोजनाः

विकिपीडियायाः आतिथेयत्वं विकिमीडिया फौण्डेषन् नाम निस्स्वार्थसङ्घटनेन कृतमस्ति। अनेन हि अन्याः अपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषापरियोजनाः



विविधासु भाषासु विकिसूक्तिः उपलभ्यते -

"https://sa.wikiquote.org/w/index.php?title=मुखपुटम्&oldid=17991" इत्यस्माद् प्रतिप्राप्तम्
भाषा