सुभाषितम्

अकर्ता ह्यकृतज्ञश्च त्यक्तात्मा निरपत्रपः ।
लोके भवतु विद्वेष्यो यस्यार्योऽनुमते गतः ॥

रामायणम् २-७५-३३

akartā hyakṛtajñaśca tyaktātmā nirapatrapaḥ ।
loke bhavatu vidveṣyo yasyāryo'numate gataḥ ॥

पदच्छेदः

अकर्ता , हि, अकृतज्ञः, च, त्यक्तात्मा, निरपत्रपः, लोके, भवतु, विद्वेष्यः, यस्य, आर्यः, अनुमते, गतः ॥


तात्पर्यम्

भरतः कौसल्यायाः सविधे वदति यत् यदि श्रीरामः ममानुमत्या वनं प्रतिगतः तर्हि अहं प्रत्युपकारस्याकर्ता, अकृतज्ञः अर्थात् कृतघ्नः, त्यक्तात्मा अर्थात् सद्भिः त्यक्तः बन्धनादिभिः परित्यक्तदेहः, निरपत्रपः अर्थात् लज्जाविहीनश्च (प्रायश्चित्तविहीनश्च) भवेयम् । लोके सर्वेऽपि मां द्विषन्तु नाम। परन्तु मम परामर्शोऽत्र न स्वीकृतः ।


आङ्ग्लार्थः

May the one who counselled the exile of my esteemed brother be hated universally as one who never helps any one, who is ungrateful, shameless and as one who has been abandoned by good people.

"https://sa.wikiquote.org/w/index.php?title=अकर्ताचाकृतज्ञश्च...&oldid=17307" इत्यस्माद् प्रतिप्राप्तम्