हे चतुर, वद उत्तरम् !
|
---|
वृक्षाग्रवासी न च पक्षिराजः त्रिणेत्रधारी न च शूलपाणिः । त्वग्वस्त्रधारी न च सिद्धयोगी जलं च बिभ्रत् न घटो न मेघः ॥
वृक्षस्य अग्रभागे वसामि, किन्तु पक्षिजातीयः नास्मि । मम नेत्रत्रयं विद्यते, किन्तु अहं शूलपाणिः नास्मि ।
चर्मवस्त्रं धृतवान् अस्मि, किन्तु अहं सिद्धयोगी नास्मि । अहं जलं धरामि, किन्तु नाहं घटः न वा मेघः ।
|
|
|
|
|
---|
प्रामाण्यबुद्धिः स्तोत्रेषु देवताबुद्धिरात्मनि । कीटबुद्धिर्मनुष्येषु नूतनायाः श्रियः फलम् ॥
अनर्हः कश्चित् अकाले अधिकं धनं यदि प्राप्नुयात् तर्हि स्तुतिकाराणां वचनमेव यथार्थं मन्यते सः । ‘अहम् एव देवः, देवन्द्रो वा’ इति सः चिन्तयति । ‘अन्ये एते जनाः सर्वे कीटवत् सन्ति । एते सर्वे उपेक्षार्हाः’ इति चिन्तयति सः । धनमदः एतत्सर्वं कारयति ।
|
|
|
|