अकामतः स्वयमिन्द्रियस्पर्शेन...

सुभाषितम्

अकामतः स्वयमिन्द्रियस्पर्शेन वीर्यस्खलनं।
विहाय वीर्यं शरीरे संरक्ष्योर्ध्वरेताः सततं भव ॥

(शिष्यकर्तव्यसम्बद्धः) गोभिल ३/१

akāmataḥ svayamindriyasparśena vīryaskhalanaṃ।
vihāya vīryaṃ śarīre saṃrakṣyordhvaretāḥ satataṃ bhava ॥

पदच्छेदः

अकामतः, स्वयम्, इन्द्रियस्पर्शेन, वीर्यस्खलनं, विहाय, वीर्यं, शरीरे, संरक्ष्य, ऊर्ध्वरेताः, सततं, भव ।


तात्पर्यम्

गुरुः शिष्यं प्रति उपदिशति यत् हे प्रियशिष्य त्वं विना प्रयोजनं स्वयं स्वमर्माङ्गं स्पृष्ट्वा वीर्यस्य स्खलनकार्यं त्यक्त्वा वीर्यं स्वशरीरे एव संरक्ष्य निरन्तरं प्राणायामाद्युपायैः ऊर्ध्वरेताः भव ।


आङ्ग्लार्थः

Except in the case of urine-discharge never touch the organ of urine to cause the discharge of semen and restraining the semen in body always try to become the man whose semen is never discharged and has thus become the source of attaining knowledge by taking uptrends towards mind and thus do your work with all such cares.