सुभाषितम्

अकारं चाप्युकारं च मकारं च प्रजापतिः ।
वेदत्रयान्निरदुहद् भूर्भुवः स्वरितीति च ॥४॥

मनुस्मृतिः २/७६

akāraṃ cāpyukāraṃ ca makāraṃ ca prajāpatiḥ ।
vedatrayānniraduhad bhūrbhuvaḥ svaritīti ca ॥

पदच्छेदः

अकारं, च, अपि, उकारं, च, मकारं, च, प्रजापतिः, वेदत्रयान्निरदुहद्, भूर्भुवः स्वरितीति च ॥


तात्पर्यम्

प्रजापतिः ब्रह्मा ऋग्वेदादकारं, यजुर्वेदादुकारं, सामवेदाद् मकारञ्च स्वीकृत्य यथा ओंकारमरचयत्तथैव क्रमशः त्रिभिः वेदैः भूः भुवः स्वः इति व्याहृतित्रयं दुदोह । (व्याहृतिरचनासम्बद्धः)


आङ्ग्लार्थः

Pragapati (the lord of creatures) milked out (as it were) from the three Vedas the sounds A, U, and M, and (the Vyahritis) Bhuh, Bhuvah, Svah.

"https://sa.wikiquote.org/w/index.php?title=अकारं_चाप्युकारं_च_...&oldid=17315" इत्यस्माद् प्रतिप्राप्तम्