अकीर्तिर्निन्द्यते देवैः,...

सुभाषितम्

अकीर्तिर्निन्द्यते देवैः, कीर्तिर्लोकेषु पूज्यते।
कीर्त्यर्थं तु समारम्भः, सर्वेषां सुमहात्मनाम् ॥५॥
वाल्मीकिरामायणम् ७/४५/१३




तात्पर्यम्

देवैरपि अपकीर्तिः निन्दिता भवति। कीर्तिः लोके सज्जनैः पूजिता भवति। अतः यशः प्राप्तुं सर्वेषां महात्मनां कार्यं भवति॥ (कीर्तिः)