अकृत्वा पौरुषं या श्रीः...

सुभाषितम्

अकृत्वा पौरुषं या श्रीः विकासिन्यपि किं तया।
जरद्गवः समश्नाति दैवादुपगतं तृणम्॥

पञ्चतन्त्र/लब्धप्रणाश/६४

akṛtvā pauruṣaṃ yā śrīḥ vikāsinyapi kiṃ tayā।
jaradgavaḥ samaśnāti, daivādupagataṃ tṛṇam॥

पदच्छेदः

अकृत्वा, पौरुषं, या, श्रीः, विकासिन्या, अपि, किं, तया, जरद्गवः, समश्नाति, दैवात्, उपगतं, तृणम् ।


तात्पर्यम्

प्रयत्नेन पौरुषेण च विना प्राप्ता सम्पत्तिः संवर्धमाना चेदपि तया सम्पत्या आत्मतृप्तिः न जायते । वृद्धेन अपि वृषभेन अदृष्टेन प्राप्तं तृणं खादितुम् अवसरः प्राप्यते ।


आङ्ग्लार्थः

What if one's wealth is blossoming without his effort? Even an old bull can graze the grass that becomes available by chance!