सुभाषितम्

अकृत्वा हेलया पादमुच्चैर्मूर्धसु विद्विषाम् ।
कथङ्कारमनालम्बा कीर्तिर्द्यामधिरोहति ॥

शिशुपालवधम् २-५२

akṛtvā helayā pādamuccairmūrdhasu vidviṣām ।
kathaṅkāramanālambā kīrtirdyāmadhirohati ।।

पदच्छेदः

अकृत्वा, हेलया, पादम्, उच्चैः, मूर्धसु, विद्विषाम्, कथङ्कारम्, अनालम्बा, कीर्तिः, द्याम्, अधिरोहति ।


तात्पर्यम्

शत्रोः शिरसः उपरि पादं न संस्थाप्य कीर्तिः कथं वा स्वर्गं गच्छेत् । यतो हि शत्रूणां शिरः एव तस्य आलम्बनं भवति ।


आङ्ग्लार्थः

How can fame, without any foothold, ascend to heaven without having planted, with ease, her foot on the high heads of enemies.

"https://sa.wikiquote.org/w/index.php?title=अकृत्वा_हेलया...&oldid=17371" इत्यस्माद् प्रतिप्राप्तम्