अक्रोधनः क्रुध्यतां वै...

सुभाषितम्

अक्रोधनः क्रुध्यतां वै विशिष्टस्तथा तितिक्षुरतितिक्षोर्विशिष्टः। अमानुषान्मानुषो वै विशिष्टस्तथाऽज्ञानाज्ज्ञानविद् विशिष्टः॥

महा. भा./शान्ति/२८८/१५

akrodhanaḥ krudhyatāṃ vai viśiṣṭa- stathā titikṣuratitikṣorviśiṣṭaḥ। amānuṣānmānuṣo vai viśiṣṭa- stathā'jñānājjñānavid viśiṣṭaḥ॥

पदच्छेदः

अक्रोधनः, क्रुध्यतां, वै, विशिष्टः, तथा, तितिक्षुः, अतितिक्षोः, र्विशिष्टः, अमानुषात्, मानुषः, वै, विशिष्टः, तथा, अज्ञानात्, ज्ञानविद्, विशिष्टः ।


तात्पर्यम्

क्रोधिभ्यः क्रोधस्वभावरहितः श्रेष्ठः, असहिष्णुभ्यः सहनशीलः उत्तमः, अमानुषेभ्यः मानुषः उत्तमः, तथा अज्ञेभ्यः ज्ञानी श्रेष्ठः भवति सदा ।


आङ्ग्लार्थः

One who does not get angry is superior to the angry ones. A tolerant person is superior to the intolerant. Men are superior to non-humans. And similarly a learned one is superior to one without learning.