अक्षमः क्षमतामानी, यः ...

सुभाषितम्

अक्षमः क्षमतामानी यः क्रियायां प्रवर्त्तते।
स हि हास्यास्पदं चापि लभते प्राणसंशयम्॥

कवितामृतकूप/६२

akṣamaḥ kṣamatāmānī yaḥ kriyāyāṃ pravarttate।
sa hi hāsyāspadaṃ cāpi labhate prāṇasaṃśayam॥

पदच्छेदः

अक्षमः, क्षमतामानी, यः, क्रियायां, प्रवर्त्तते, सः, हि, हास्यास्पदं, च, अपि, लभते, प्राणसंशयम् ।


तात्पर्यम्

अक्षमः अर्थात् असमर्थः क्षमतामानी भूत्वा स्वयं समर्थ इति मत्वा यदि कश्चित् किमपि कार्यं कर्तुं प्रवर्तते सः असफलः भूत्वा संसारे अपहास्यपात्रं भविष्यति कदाचित् तस्य प्राणा अपि संकटे पतिष्यन्ति ।


आङ्ग्लार्थः

One who is incapable but considers himself capable to do a certain work and starts to do it, becomes a laughing stock and perils his own life.