अक्षैर्मा दीव्यः ॥
अक्षैर्मा दीव्यः ॥ (ऋग्वेदः १०-३४-१३)
सम्पाद्यताम्द्यूतादिभिः मा क्रीड्यताम् ।
- द्यूतं नाम किम् ? मूलधनं न्यूनं स्यात् । प्रतिफलम् अत्यधिकं स्यात् । इदमपि प्रतिफलम् अचिरादेव लभ्येत । अस्य अत्यधिकस्य फलस्य निमित्तं मया क्रियमाणः परिश्रमः अत्यल्पः स्यात् !! एतादृशी काचित् 'व्यवस्था' न विद्यते । कदाचित् एवं जातमिति दृश्यते । किन्तु तां घटनां सूक्ष्मतया यदि अवलोकयेम तर्हि तत्रत्याः ऋणांशाः अवगम्यन्ते ! प्रतिफलस्य प्राप्तिः भिन्ना । तस्य अनुभोगः भिन्नः । शान्त्या तस्य आस्वादनं तु विभिन्नः एव !! अस्माकं सर्वेषाम् अपेक्षा तु तृतीयस्य प्राप्तिः एव । तत्तु कदापि द्यूतेन प्राप्तुम् अशक्यम् ! द्यूते भवति वक्रबुद्धिः । यत्र वक्रबुद्धिः तत्र शान्तेः प्रसक्तिः नैव । परिश्रमः यदा क्रियेत, तस्य प्रतिफलं यदा लभ्येत तदा एव वस्तुतः सन्तोषः, शान्तिश्च । इदं प्रमाणेन कदाचित् अधिकं न स्यात्, किन्तु गुणेन भवति श्रेष्ठतमम् । अस्य सत्यस्य साक्षात्कारः यदा भवेत् तदा द्यूतसम्बद्धा वक्रता विनश्यते, परिश्रमस्य मूल्यम् अवगतं भवेत् ।