<poem> शलभः अर्थात् पतङ्गः अग्निज्वालां दृष्ट्वा तदुपरि उत्पतति तया च ज्वालया दग्धः भवति । तथैव बहवः जनाः उद्विग्नाः सन्तः तात्कालिकेन आकर्षणेन साधकबाधकविचारम् अकृत्वा सुखदुःखयोः, लाभनष्टयोः च विचारम् अपि अकृत्वा फलप्राप्त्यर्थं लोभेन सहसा कार्याणि कर्तुम् इच्छन्ति । तेषां विषये अस्य न्यायस्य प्रयोगः भवति ।

"https://sa.wikiquote.org/w/index.php?title=अग्निशलभन्यायः&oldid=9397" इत्यस्माद् प्रतिप्राप्तम्