अग्नेः शिखा ऊर्ध्वं गच्छति इति स्वाभाविकम् । तथैव आत्मनः अपि ऊर्ध्वगमनम् अस्ति इति केषाञ्चन जैनदार्शनिकानां मतम् । सर्वदर्शनसंग्रहनामके ग्रन्थे एतादृश्याः ऊर्ध्वगतेः विषये चतुर्णां न्यायानाम् उल्लेखः उपलभ्यते । एते न्यायाः सर्वे अपि स्वाभाविकतायाः उदाहरणरुपाः । ते च

१. कुलालचक्रन्यायः
२. व्यपगतलेपालाबून्यायः
३. एरण्डबीजन्यायः
४. अग्निशिखान्यायः
"https://sa.wikiquote.org/w/index.php?title=अग्निशिखान्यायः&oldid=12330" इत्यस्माद् प्रतिप्राप्तम्