अङ्गणवेदी वसुधा कुल्या...

सुभाषितम्

अङ्गणवेदी वसुधा कुल्या जलधिः स्थली च पातालम् ।
वल्मीकश्च सुमेरु कृतप्रतिज्ञस्य धीरस्य ॥

aṅgaṇavēdī vasudhā kulyā jaladhi sthalī ca pātālam ।
valmīkaśca sumēru kr̥tapratijñasya dhīrasya

पदच्छेदः

अङ्गणवेदी, वसुधा, कुल्या, जलधिः, स्थली, च, पातालम्, वल्मीकः, च, सुमेरु, कृतप्रतिज्ञस्य, धीरस्य ।


तात्पर्यम्

धीरस्य कृते सम्पूर्णा पृथ्वी क्रीडाङ्गणमिव, समुद्रं लघु कूप इव, पातालम् एकम् उद्यानमिव, सुमेरुपर्वतोऽपि वल्मीक इव भवति । धीराः कठिणामपि समस्यां धैर्येण सरलतया निवारयन्ति । कष्टं न अनुभवन्ति ।


आङ्ग्लार्थः

For a brave person with conviction, the world looks like a small ground, voilent rivers become mere canals, the violent under ground (patala) is just like a park, the mighty Mt. Meru is nothing more than an ant hill.