अङ्गुलि-दीपिका- ध्वान्तध्वंसन्यायः

अन्धकारः दूरीकरणीयः चेत् महान् प्रयासः करणीयः न भवति । लघुदीपः अपि केनापि अंशेन अन्धकारं दूरीकर्त्तु शक्नोति । सः दीपः अङ्गुलिप्रमाणः भवति चेदपि कः प्रत्यवायः ? गाढम् अन्धकारं दूरीकर्तु दीपशिखायाः अपि उपयोगः क्रियते तया कियान् अन्धकारः कियन्तं कालं यावत् अपसारितः भवेत् ? संपूर्णस्य अन्धकारस्य निवारणं तु अशक्यम् एव । महत्तः परिणामस्य कृते लघोः दीपसमानस्य साधनस्य उपयोगः पर्याप्तः । तदर्थ महत्याः दीपशिखायाः आवश्यकता नास्ति । एतस्मिन् अर्थे अस्य न्यायस्य उपयोगः भवति ।