अजातपुत्र-नामोत्कीर्तनन्यायः

अपत्यस्य जन्मनः पूर्वमेव तस्य गुणानां स्तुतिः किंवा तस्य तस्य अपत्यस्य नामकरणम् इत्यादिकं क्वचित् त्वरावशात् केचन कुर्वन्ति । एतादृशस्य व्यर्थकर्मणः निर्देशार्थम् अस्य न्यायस्य प्रयोगः क्रियते ।