अचः नाम स्वराः । हलः नाम व्यञ्जनानि । उच्चारणस्य कृते एतेषां द्विविधवर्णानाम् आवश्यकता भवति । हल्वर्णस्य साहाय्यं विना स्वरस्य उच्चारणं सरलं नास्ति परन्तु अतीव कठिनम् अपि नास्ति । परं केवलस्य हलवर्णस्य उच्चारणं तावत् कठिनम् एव । अतः अचः ससत्त्वाः हलः निस्सत्त्वाः भवन्ति । हलः निस्सत्त्वाः यतः स्वराणाम् एव आधारेण तेषाम् उच्चारणं भवति । (समर्थाः एकाकिनः अपि स्वरा इव राजन्ते असमर्थाः तु व्यञ्जनानि इव न राजन्ते इति भावः)

एकाकिनोऽपि राजन्ते सारसत्त्वाः स्वरा इव ।
व्यञ्जनानीव निः सत्त्वाः परेषामनुगामिनः ॥ सा. १३४
"https://sa.wikiquote.org/w/index.php?title=अज्झल्-न्यायः&oldid=8160" इत्यस्माद् प्रतिप्राप्तम्