सुभाषितम्

अणुरप्यसतां सङ्गः सद्गुणं हन्ति विस्तृतम् ।
गुणरुपान्तरं याति तक्रयोगाद्यथा पयः ॥

सुभाषितरत्नभाण्डागारम् ८७-४

aṇurapyasatāṃ saṅgaḥ sadguṇaṃ hanti vistṛtam ।
guṇarupāntaraṃ yāti takrayogādyathā payaḥ ॥

पदच्छेदः

अणुः, अपि, असतां, सङ्गः, सद्गुणं, हन्ति, विस्तृतम्, गुणरुपान्तरं, याति, तक्रयोगात्, यथा, पयः ।


तात्पर्यम्

अल्पप्रमाणस्य तक्रस्य योजनेन अपि क्षीरस्य रूपं गुणाः च यथा परिवर्त्यन्ते तथा दुर्जनानाम् अल्पेन सहवासेन अपि अस्माकम् उत्तमाः गुणाः नष्टाः भवन्ति ।


आङ्ग्लार्थः

Even little association with the wicked destroys good qualities (though) in abundance, just as (a large quantity of) milk undergoes a metamorphosis (gets coagulated into curds) by its getting mixed up with (a little) butter milk.

"https://sa.wikiquote.org/w/index.php?title=अणुरप्यसतां_सङ्गः...&oldid=17410" इत्यस्माद् प्रतिप्राप्तम्