अतिदीर्घे जीविते को...
अतिदीर्घे जीविते को रमेत ? - काठकोपनिषत् १-१-२८
बहुदीर्घकालपर्यन्तं जीवनमात्रेण को वा सन्तोषेण जीवेत् ?
सर्वोऽपि पुरुषः दीर्घायुः भवितुम् इच्छति । देवालयादीन् गत्वा तत्र अष्टोत्तरशत
सहस्रनाम पूजा अभिषेकादीन् कारयद्भिः भक्तैः देवतासंनिधौ क्रियमाणः सङ्कल्पो
नाम 'दीर्घायुरारोग्यऎश्वर्याभिवृद्धयर्थम्' – इत्येव । तथा शिष्यैः नमस्कृताः
वृद्धाः, वेदपुरुषाः, 'दीर्घायुष्मान् भव' इत्येव हि प्रप्रथमतया आशीर्वादं कुर्वन्ति ।
को वा अल्पायुर्भूत्वा अकाले मुमूर्षति ? न कोऽपि ॥
साध्वेव एतत् सर्वम्, अपि तु दीर्घायुर्विषये अयं काठकोपनिषन्मन्त्रः एकं सुन्दरं
सन्देशम् उपदिशति । स च सन्देशो नाम 'शतायुर्जीवनमात्रेण मनुष्यः किम् आनन्दी
स्यात् ? नैव' इति । कथं तर्हि आनन्दी स्यात् ? तृप्त्या आनन्दः, विवेकेन आनन्दः,
वैराग्येण आनन्दः, आत्मज्ञानेन आनन्दः, न तु केवलं विषयभोगजीवनमग्नमात्रेण ।
शताधिकसंवत्सरपर्यन्तं जीवनमात्रेण आनन्दी न स्यात् नरः । तावन्मात्रेण न सुखी भवेत् ॥