अतिपरिचयेन प्रेमापेक्षया अपमान एव भवति इत्यस्य न्यायस्य अर्थः । यथा-चन्दन इति अत्यन्तं मूल्यवान् सुगन्धी वृक्षः मलयपर्वते अधिकप्रमाणेन उपलभ्यते । अधिकप्रमाणेन लभ्यते इति कारणेन तत्रस्थाः भिल्लमहिलाः तस्य वृक्षस्य मूल्यम् अज्ञात्वा तम् इन्धनरुपेण विनियुञ्जते ।

अतिपरिचयाद् अवज्ञा सन्ततगमनाद् अनादरो भवति ।
मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं कुरुते ॥ (शार्ङ्गधरपद्धतिः ८३)
"https://sa.wikiquote.org/w/index.php?title=अतिपरिचयन्यायः&oldid=8164" इत्यस्माद् प्रतिप्राप्तम्