अथ एष एव परम आनन्दः, एष ब्रह्मलोकः सम्राट्,
इति होवाच याज्ञवल्क्यः । - बृहदारण्यकोपनिषत् ४-३-३३

अथ एष एव परमानन्दः, एष एव ब्रह्मलोकः हे सम्राट्,
इति याज्ञवल्क्यः जनकं प्रति अवदत् ॥

आनन्दमीमांसायाम् इदं वाक्यम् अन्तिमम् । आत्मज्ञानेन
लभ्यस्य ब्रह्मानन्दस्य महिमानं एषः मन्त्रम् उपदिशति । महाराजस्य
आनन्दं प्रथमत्वेन स्वीकृत्य अनन्तरं शतगुण अधिक आनन्दः
वर्ण्यते अस्मिन् प्रकरणे ॥

श्रोत्रियेणा अवृजिनेन अकामहतेन ब्रह्मज्ञानिना प्राप्यमाणः
ब्रह्मानन्दः परमः । अयमेव आनन्दः मोक्षः इत्यपि कथ्यते ।
नहि मोक्षो नाम कर्मफलवत् उत्पाद्यः । न च कर्मफलेष्विव
मोक्षे तारतम्यं सम्भवति । न च ज्ञानफलं मोक्षः कर्मफलवत्
मरणानन्तरं लोकान्तरे जन्मान्तरे स्वर्गवत् प्राप्यं फलम्,
किं तु मोक्षो नाम ब्रह्मलोकः । ब्रह्मैव लोकः ब्रह्मलोकः, नतु
ब्रह्मणो हिरण्यगर्भस्य विराटपुरुषस्य लोकः । अयं ब्रह्मानन्दः
ब्रह्मलोकः परिमाणातीतः । परं ब्रह्मैव ज्ञानिनां लोकः ॥

"https://sa.wikiquote.org/w/index.php?title=अथ_एष_एव_परम_आनन्दः...&oldid=16442" इत्यस्माद् प्रतिप्राप्तम्