अथ योऽन्यां देवताम् उपास्ते...

अथ योऽन्यां देवताम् उपास्ते ‘अन्योऽसौ अन्योऽहमस्मीति’ न स वेद, यथा पशुः,
एवं स देवानाम् । - बृहदारण्यकोपनिषत् १-४-१०

‘देवता अन्या, अहम् अन्यः’ इति मत्वा यः परिच्छिन्नामेव अनात्मभूतां देवताम् उपास्ते,
सः परं ब्रह्म न वेत्ति । सः देवानां पशुरिव वर्तते ॥

ब्रह्मज्ञानी भवति चेत् स स्वराट् भवति, सः अस्मात् संसारात् मुच्यते एव । आत्मज्ञानी न
भवति चेत्, तथा केवलदेवतोपासन निरतश्चेत् तादृशः मन्दः संसारसागरनिमग्न एव । स
जन्ममरणचक्रबद्धः बलिपशुसमान एव ॥

यस्मात् देवाः परमस्वार्थिनः । मानवान् पशुत्वेन साधयित्वा देवताः स्वार्थसाधनं कुर्वन्ति ।
मानवेभ्यः धनं, सुवर्णं, वस्तुवाहनानि,पुत्रपौत्रांश्च दत्वा, देवताः स्वोपासकान् स्वाधीनान्
कृत्वा स्वयं भोगमग्नः भवितुमिच्छन्ति । आत्मज्ञानमार्गविमुखाः केवल देवतोपासकाः
अभ्युदयपराः देवताधीनाः मानवाः सर्वे देवताबलिपशवो भवन्ति ॥