अथ हैनं गार्गी वाचक्नवी...


परब्रह्मणः लक्षणम्

अथ हैनं गार्गी वाचक्नवी पप्रच्छ, याज्ञवल्क्येति होवाच, यदिदं सर्वं
कस्मिन्नु खलु ओतं प्रोतं च ? - बृहदारण्यकोपनिषत् ३-६-१

अथ, वाचक्नवी गार्गी पप्रच्छ, “भो याज्ञवल्क्य, इदं सर्वं कस्मिन् ओतं प्रोतं च“ इति ।

अस्माकं भारतीयसंस्कृतौ स्त्रीणां कीदृशम् उत्तमं स्थानमस्ति ! भारतीयसम्प्रदाये कीदृश्यः
श्रेष्ठाः स्त्रियः सन्ति इति एतस्माद् मन्त्राद् ज्ञायते । गार्गी नाम एका स्त्री । नैषा केवलं
सामान्या स्त्री । किन्तु एषा वाचक्नवी, परब्रह्मविषये विचारवादकरणे समर्था आसीत् ।
वाचक्नोः पुत्री एषा गार्गी भारतीयानां सर्वासामपि स्त्रीणाम् आदर्शभूता योषित् । एषा
याज्ञवल्क्यं प्रति एवं पृष्टवती –

“भो याज्ञवल्क्य, इदं सर्वमपि विश्वं कस्मिन् ओतं प्रोतं चास्ति” ? इदं विश्वं नाम सर्वमपि
आध्यात्मिकम् आधिभौतिकं तथा आधिदैविकं जगत् इत्यर्थः । अयं सर्वोऽपि प्रपञ्चः कस्मिन्
प्रतिष्ठितः ? सकलदेवाधिदेवानामपि आस्पदभूतम् आधारभूतं तत्त्वं किम् ? इति प्रश्नस्य
आशयः । यस्मिन् इदं जगत् प्रतिष्ठितं तदेव परं ब्रह्म इति याज्ञवल्क्यस्य प्रतिवचनम् ॥