अदीनाः स्याम शरदः शतम् ॥

अदीनाः स्याम शरदः शतम् ॥ (यजुर्वेदः ३६-३-४)

सम्पाद्यताम्

दैन्येन विना शताधिकानि वर्षाणि जीवेम ।

अस्माकं कर्मणाम् अनुगुणम् अस्माकं जन्म भवति । पूर्वतनकर्मानुगुणम् अद्यत्वे मानवजन्म प्राप्तमस्ति । अस्य मानवजन्मनः विशेषता का ? पशूनाम् अपेक्षया उत्तमं जीवनं यापनीयम् । निद्रा-खादन-भय-सन्तानोत्पत्तिः इत्येतत् पशूनां जीवनम् । ज्ञानसम्पादनम्, आत्मनः उन्नत्यै साधनम् इत्यादीनाम् अवसरः एव अत्र विशेषः । अस्य निमित्तं दीर्घः आयुः अपेक्षितः । शतवर्षाणि अपि अपर्याप्तानि, तदपेक्षया अधिकम् अपेक्षितम् । किन्तु तच्च जीवनं दैन्यरहितं स्यात् । अन्धत्वे, बधिरत्वे, मूकत्वे, पङ्गुत्वे सति साधनं कुतः ? दीर्घकालः स्यात् । शरीरं सुस्थितौ स्यात् । सत्कार्याणि कुर्वन्तः भवेम । एतेन धनात्मकचिन्तनेन जीवनेन सार्थक्यं प्राप्यते । आरोग्यकराय आचरणाय अवसरान् कल्पयति । तदा एव दैन्येन विना शताधिकानि वर्षाणि जीवेम इत्येषः सङ्कल्पः सिद्धः भवेत् ।