सुभाषितम्

अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा ।
अनुग्रहश्च दानञ्च शीलमेतद् विदुर्बुधाः ॥

महाभारतम् १२-१६०-२१, १२-१२४-६६

adrohaḥ sarvabhūteṣu karmaṇā manasā girā ।
anugrahaśca dānañca śīlametad vidurbudhāḥ ॥

पदच्छेदः

अद्रोहः, सर्वभूतेषु, कर्मणा, मनसा, गिरा, अनुग्रहः, च, दानं, च, शीलम्, एतद्, विदुः, बुधाः ।


तात्पर्यम्

वचनेन, मनसा, क्रियया वा कस्यापि प्राणिनः अद्रोहः, अनुग्रहः, दानगुणः च उत्तमं शीलम् इति ज्ञानिनः वदन्ति ।


आङ्ग्लार्थः

Abstention from injury as regards all creatures in thoughts, word, and deed, kindness, and gift are the eternal duties of those who are good.

"https://sa.wikiquote.org/w/index.php?title=अद्रोहः_सर्वभूतेषु...&oldid=17418" इत्यस्माद् प्रतिप्राप्तम्