अधिकरणसिद्धान्तन्यायः

एकस्मिन् अधिकरणे विषयः, विशयः (संशयः), पूर्वपक्षः, उत्तरपक्षः निर्णयः च इति पञ्चानाम् अङानां साहाय्येन कस्यचन विषिष्टस्य सिद्धान्तस्य स्थापनं भवति ।

‘अधिकरणं नाम यमर्थम्धिकृत्य प्रवर्तते कर्ता ।’ (चरकसंहिता पृ१०२९)

तस्य सिद्धान्तस्य अवगमनाय यदा अपरः सिद्धान्तः आवश्यकः भवति तत् सूचयितुम् अस्य न्यायस्य प्रयोगः भवति । यस्य विषये किमपि कथितं भवति तत् अधिकरणम् ।

‘यमर्थमधिकृत्य उच्यते तत् अधिकरणम्’ (कौटिलीय- अर्थशास्त्रम् पृ.४५७)