<poem> यज्ञकर्तुः के गुणाः आवश्यकाः ? तस्य कीदृशी योग्यता अपेक्षिता ? इत्यादि-विषये केचन नियमाः शास्त्रे कथिताः । अधिकारस्य अर्थात् योग्यतायाः विषये नियमाः यत्र कथिताः तत्र अस्य न्यायस्य प्रयोगः भवति । मीमांसाशास्त्रे अस्य विवेचनम् उपलभ्यते यथा -

  किञ्चित्तु पुरुषविशेषणत्वेन अश्रुतमपि अधिकारिविशेषणं भवति ।
  यथाध्ययनसिद्धा विद्या अग्निसाध्येषु कर्मसु आधानसिद्धाग्निमत्त्वं सामर्थ्य च । - मीमांसान्यायप्रकाशः
"https://sa.wikiquote.org/w/index.php?title=अधिकारन्यायः&oldid=14586" इत्यस्माद् प्रतिप्राप्तम्