अनन्तं वै मनो अनन्ता विश्वे देवाः; अनन्तमेव स तेन लोकं जयति । - बृहदारण्यकोपनिषत् ३-१-९

मनः अनन्तम्, विश्वे देवाश्च अनन्ताः । एवमुपासनेन साधकः अनन्तानेव लोकान् जयति ॥

परमात्मनः अनन्तसृष्टिषु मनोऽपि अन्यतमम् । मनो हि अद्भुतं वस्तु । मनसः शक्तिर्हि अद्भुता । इदं मनः अनन्तम् ।
इदं मनः सर्वव्यापि, सर्वशक्तं, सर्वान्तर्यामि च । अस्य मनसः असाध्यं नाम न किञ्चिदस्ति । मनसा एव सुखदुःखे,
स्वर्गनरके, रागद्वेषौ, लाभनाशौ, साधुअसाधू, ज्ञानाज्ञाने, बन्धमोक्षौ च; मनसा एव कर्मोपासने । 'मनसि सति मार्गः'
इति हि प्रसिद्धिश्च ॥

विश्वे देवाः अनन्ताः, मनश्च अनन्तम् । अनन्तान् देवान् अनन्तैः मनोभिः उपासते चेत् अनन्ता एव लोकाः प्राप्यन्ते ।
इदम् अनन्तं मनः भगवता मानवेभ्यः दत्ता श्रेष्ठा सम्पत् । अध्यात्मसाधनैः इदं मनः सुसंस्कृतं कुर्यात् । आत्मज्ञानप्राप्तिद्वारा
अस्य मनसः सम्पूर्णसार्थक्यं यः लभते स एव धन्यः ॥

"https://sa.wikiquote.org/w/index.php?title=अनन्तं_वै_मनो_अनन्ता...&oldid=16447" इत्यस्माद् प्रतिप्राप्तम्